मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् २

संहिता

या धा॒रय॑न्त दे॒वाः सु॒दक्षा॒ दक्ष॑पितरा ।
अ॒सु॒र्या॑य॒ प्रम॑हसा ॥

पदपाठः

या । धा॒रय॑न्त । दे॒वाः । सु॒ऽदक्षा॑ । दक्ष॑ऽपितरा ।
अ॒सु॒र्या॑य । प्रऽम॑हसा ॥

सायणभाष्यम्

या यौ युवां धारयन्त के देवाः आदिकर्तारः असुयाय बलकरणाय कीदृशौ युवां सुदक्षा शोभनबलौ दक्षपितरा बलस्य पालकौ स्वामिनौ वा बलप्रदावित्यर्थः प्रमहसा प्रकृष्टतेजस्कौ तौ साधयतमित्युत्तरत्रान्वयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः