मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् ३

संहिता

ता नः॑ स्ति॒पा त॑नू॒पा वरु॑ण जरितॄ॒णाम् ।
मित्र॑ सा॒धय॑तं॒ धियः॑ ॥

पदपाठः

ता । नः॒ । स्ति॒ऽपा । त॒नू॒ऽपा । वरु॑ण । ज॒रि॒तॄ॒णाम् ।
मित्र॑ । सा॒धय॑तम् । धियः॑ ॥

सायणभाष्यम्

ता तौ स्तिपा स्त्यायन्तइति स्तयोग्रहाः तान्पातइतिस्तिपौ तनूपा तन्वः पातारौ हे वरुण हे मित्र उक्तलक्षणौ युवां जरितॄणां नोस्माकं धियः कर्माणि स्तुतिरूपाणि साधयतं सफलवन्ति कुरुतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः