मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् ७

संहिता

प्रति॑ वां॒ सूर॒ उदि॑ते मि॒त्रं गृ॑णीषे॒ वरु॑णम् ।
अ॒र्य॒मणं॑ रि॒शाद॑सम् ॥

पदपाठः

प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । मि॒त्रम् । गृ॒णी॒षे॒ । वरु॑णम् ।
अ॒र्य॒मण॑म् । रि॒शाद॑सम् ॥

सायणभाष्यम्

हे मित्रावरुणौ मित्रं त्वां वरुणंच वां युवां रिशादसं शत्रूणामत्तारं अर्यमणं च प्रति प्रत्येकं गृणीषे स्तुवे कदेति उच्यते सूरे सूर्ये देवे उदिते सति प्रातरित्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः