मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् ८

संहिता

रा॒या हि॑रण्य॒या म॒तिरि॒यम॑वृ॒काय॒ शव॑से ।
इ॒यं विप्रा॑ मे॒धसा॑तये ॥

पदपाठः

रा॒या । हि॒र॒ण्य॒ऽया । म॒तिः । इ॒यम् । अ॒वृ॒काय॑ । शव॑से ।
इ॒यम् । विप्रा॑ । मे॒धऽसा॑तये ॥

सायणभाष्यम्

हिरण्यया हितरमणीयेन राया धनेन सहिताय अवृकाय अहिंस्याय शवसेस्माकं बलाय इयमिदानीं क्रियमाणामतिः स्तुतिर्भवत्विति- शेषः हिरण्ययेत्यत्र सुपांसुलुगिति तृतीयैकवचनस्य याजादेशः । किञ्च हे विप्राःप्राज्ञाः इयमेवस्तुतिर्मेधसातये यज्ञलाभाय च भवतु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः