मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् ९

संहिता

ते स्या॑म देव वरुण॒ ते मि॑त्र सू॒रिभि॑ः स॒ह ।
इषं॒ स्व॑श्च धीमहि ॥

पदपाठः

ते । स्या॒म॒ । दे॒व॒ । व॒रु॒ण॒ । ते । मि॒त्र॒ । सू॒रिऽभिः॑ । स॒ह ।
इष॑म् । स्व१॒॑रिति॑ स्वः॑ । च॒ । धी॒म॒हि॒ ॥

सायणभाष्यम्

हे देव वरुण ते वयं तव स्तोतारः स्याम समृद्धाभवेम । न केवलं वयमेवयजमानाः किन्तु सूरिभिः स्तोतृभिरृत्विग्भिः सह तथा हे मित्रादेव ते वयं सूरिभिः सह स्याम भवेम किञ्च इषमन्नं स्वरुदकं च धीमहि धारयामहे ॥ ९ ॥ आश्विनशस्त्रे बहवः सूरचक्षसइति प्रगाथः सूत्रितञ्च-बहवःसूरचक्षसइति प्रगाथाइति । दशरात्रे पञ्चमेहनि प्रउगशस्त्रेप्ययंप्रगाथः सूत्रितञ्च-बहवः सूरचक्षसइमाउवांदिविष्टयइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः