मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् १०

संहिता

ब॒हव॒ः सूर॑चक्षसोऽग्निजि॒ह्वा ऋ॑ता॒वृधः॑ ।
त्रीणि॒ ये ये॒मुर्वि॒दथा॑नि धी॒तिभि॒र्विश्वा॑नि॒ परि॑भूतिभिः ॥

पदपाठः

ब॒हवः॑ । सूर॑ऽचक्षसः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽवृधः॑ ।
त्रीणि॑ । ये । ये॒मुः । वि॒दथा॑नि । धी॒तिऽभिः॑ । विश्वा॑नि । परि॑भूतिऽभिः ॥

सायणभाष्यम्

बहवोमहन्तः सूरचक्षसः सूर्यसदृशप्रकाशाः सूरः प्रकाशकोयेषामितिवा अग्निजिह्वाः अग्निरेवजिह्वा अदनसाधनोयेषां तादृशाः ऋतावृ- धोयज्ञस्य वर्धयितारोमित्रादयः किञ्च ये त्रीणि विश्वानि व्याप्तानि विदथानि क्षित्यादिस्थानानि क्षित्यादीनि परिभूतिभिः परिभावुकैः धीतिभिः कर्मभिः येमुः प्रयच्छन्ति ते क्षत्रमाशतेत्युत्तरत्र संबन्धनीयम् । अथवात्रैव ये त्रीणिस्थानानि प्रयच्छन्ति ते बहुत्वादि गुणोपेताआगच्छन्त्वित्यध्याहार्यम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः