मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् १३

संहिता

ऋ॒तावा॑न ऋ॒तजा॑ता ऋता॒वृधो॑ घो॒रासो॑ अनृत॒द्विषः॑ ।
तेषां॑ वः सु॒म्ने सु॑च्छ॒र्दिष्ट॑मे नर॒ः स्याम॒ ये च॑ सू॒रयः॑ ॥

पदपाठः

ऋ॒तऽवा॑नः । ऋ॒तऽजा॑ताः । ऋ॒त॒ऽवृधः॑ । घो॒रासः॑ । अ॒नृ॒त॒ऽद्विषः॑ ।
तेषा॑म् । वः॒ । सु॒म्ने । सु॒च्छ॒र्दिःऽत॑मे । न॒रः॒ । स्याम॑ । ये । च॒ । सू॒रयः॑ ॥

सायणभाष्यम्

ये यूयमृतावानः ऋतवन्तः राज्ञवन्तः उदकवन्तोवा ऋतजाताः उक्तः ऋतशब्दार्थः तदर्थयुत्पन्नाः अथवा ऋतात्प्रजापतेःसकाशादुत्पन्नाः ऋतावृधः उक्तार्थस्य ऋतस्य वर्धयितारः घोरासोघोसः अमृतद्विषः अयष्टृद्वेष्टारः हे नरः तेषः वोयुष्माकं सुछर्दिष्टमे सुखतमे सुम्र धने अत्यन्तरमणीयगृरुयुक्ते सुखे वा ये वयं येचान्ये सूरयः स्तोतारः ते सर्वे स्याम भवेम ॥ १३ ॥ स्तोमातिरेके माध्यन्दिनसवने नैमितिके शस्त्रे उदुत्यदित्ययं प्रगाथोनुरूपः सूत्रितञ्च-बण्महाँअसिसूर्योदुत्यद्दर्शतंवपुरिति प्रगाथौ स्तोत्रियानुरूपाविति । चातुर्विंशिकेहनि माध्यन्दिनसवने अयमेववैकल्पिकः स्तोत्रियस्तृचः सूत्रितञ्च-उदुत्यद्दर्शतंवपुरुदुत्येमधुम- त्तमाइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०