मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् १४

संहिता

उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए॑ति प्रतिह्व॒रे ।
यदी॑मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒ अर॑म् ॥

पदपाठः

उत् । ऊं॒ इति॑ । त्यत् । द॒र्श॒तम् । वपुः॑ । दि॒वः । ए॒ति॒ । प्र॒ति॒ऽह्व॒रे ।
यत् । ई॒म् । आ॒शुः । वह॑ति । दे॒वः । एत॑शः । विश्व॑स्मै । चक्ष॑से । अर॑म् ॥

सायणभाष्यम्

त्यत् तत् दर्शतं दर्शनीयं वपुर्मण्डलं दिवोन्तरिक्षस्य प्रतिह्वरे समीपेउदु एति उदेति उइतिपूरणः यदीं यदेतन्मण्डलं आशुः शीघ्रगामी एतशो एतवर्णोश्वोवहति धारयति किमर्थं विश्वस्मै सर्वस्मै अरं चक्षसे सम्यक् सर्वलोकदर्शनाय ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०