मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् १५

संहिता

शी॒र्ष्णःशी॑र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं॑ स॒मया॒ विश्व॒मा रजः॑ ।
स॒प्त स्वसा॑रः सुवि॒ताय॒ सूर्यं॒ वह॑न्ति ह॒रितो॒ रथे॑ ॥

पदपाठः

शी॒र्ष्णःऽशी॑र्ष्णः । जग॑तः । त॒स्थुषः॑ । पति॑म् । स॒मया॑ । विश्व॑म् । आ । रजः॑ ।
स॒प्त । स्वसा॑रः । सु॒वि॒ताय॑ । सूर्य॑म् । वह॑न्ति । ह॒रितः॑ । रथे॑ ॥

सायणभाष्यम्

शीर्ष्णःशीर्ष्णः सर्वस्यापिशिरसः तृतीयार्थे पञ्चमी स्वस्वशिरसेत्यर्थः सूर्यं वहन्तीत्यनेन संबध्यते अथवा शिरःशब्देन तद्वान् पदार्थो- लक्ष्यते वीप्सया तस्यकात्रुर्यमुच्यते सर्वस्य श्रेष्ठमित्यर्थः जगतोजङ्गमस्य तस्थुषः स्थावरस्य पतिं स्वामिनं रथे वर्ममानं सूर्यं सुविताय कल्याणाय विश्वं रजः समया सर्वलोकस्य समीपे अभितः परितः समयेत्यादिना समयाशब्दयोगात् द्वितीया । सप्त सप्तसङ्ख्याकाः स्वसारः अन्यनिरपेक्षेण स्वयमेव सरन्त्योहरितोहरिद्वर्णाअश्वा आवहन्ति ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०