मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् १८

संहिता

दि॒वो धाम॑भिर्वरुण मि॒त्रश्चा या॑तम॒द्रुहा॑ ।
पिब॑तं॒ सोम॑मातु॒जी ॥

पदपाठः

दि॒वः । धाम॑ऽभिः । व॒रु॒ण॒ । मि॒त्रः । च॒ । आ । या॒त॒म् । अ॒द्रुहा॑ ।
पिब॑तम् । सोम॑म् । आ॒तु॒जी इत्या॑ऽतु॒जी ॥

सायणभाष्यम्

हे वरुण त्वं मित्रश्च अद्रुहा अद्रोग्धारौ युवां दितोद्युलोकसबन्धिभ्योधामभिः धामभ्यः स्थानेभ्यः पञ्चम्यर्थेतृतीया अथवा धामभिस्ते- जोभिः विभूतिभिः सार्धं आयातं अस्मद्यज्ञमागच्छतम् आगत्य च आतुजी शत्रूणां सर्वतोहिंसकौ आदातारौ वा धनानाम् । एवं रूपौ सन्तौ सोमं पिबतम् । तुजि पिजि हिंसाबलादाननिकेतनेपु अत्र हिंसायां आदाने वा वर्तते ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११