मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६७, ऋक् ५

संहिता

प्राची॑मु देवाश्विना॒ धियं॒ मेऽमृ॑ध्रां सा॒तये॑ कृतं वसू॒युम् ।
विश्वा॑ अविष्टं॒ वाज॒ आ पुरं॑धी॒स्ता नः॑ शक्तं शचीपती॒ शची॑भिः ॥

पदपाठः

प्राची॑म् । ऊं॒ इति॑ । दे॒वा॒ । अ॒श्वि॒ना॒ । धिय॑म् । मे॒ । अमृ॑ध्राम् । सा॒तये॑ । कृ॒त॒म् । व॒सु॒ऽयुम् ।
विश्वाः॑ । अ॒वि॒ष्ट॒म् । वाजे॑ । आ । पुर॑म्ऽधीः । ता । नः॒ । श॒क्त॒म् । श॒ची॒प॒ती॒ इति॑ शचीऽपती । शची॑भिः ॥

सायणभाष्यम्

हे अश्विना अश्विनौ देवा देवौ युवां प्राचीं ऋज्वीं अमृध्रां अहिंसितां वसूयुं धनमिच्छन्तीं मे मम धियं बुद्धिं स्तुतिं कर्मवा सातये लाभाय उचितां कृतम् कुरुतम् । उःपूरणः किञ्च वाजे आ सङ्ग्रामेपि विश्वाः पुरन्धीरस्मदीया बुद्धीरविष्टं रक्षतम् । हे शचीपती शचीति कर्म नाम कर्मणां पालकौ ता तौ युवां शचीभिः अस्मदीयैः स्तुत्यादिरूपैः कर्मभिर्नोस्मान् शक्तं प्रयच्छतं धनमितिशेषः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२