मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६७, ऋक् ७

संहिता

ए॒ष स्य वां॑ पूर्व॒गत्वे॑व॒ सख्ये॑ नि॒धिर्हि॒तो मा॑ध्वी रा॒तो अ॒स्मे ।
अहे॑ळता॒ मन॒सा या॑तम॒र्वाग॒श्नन्ता॑ ह॒व्यं मानु॑षीषु वि॒क्षु ॥

पदपाठः

ए॒षः । स्यः । वा॒म् । पू॒र्व॒गत्वा॑ऽइव । सख्ये॑ । नि॒ऽधिः । हि॒तः । मा॒ध्वी॒ इति॑ । रा॒तः । अ॒स्मे इति॑ ।
अहे॑ळता । मन॑सा । आ । या॒त॒म् । अ॒र्वाक् । अ॒श्नन्ता॑ । ह॒व्यम् । मानु॑षीषु । वि॒क्षु ॥

सायणभाष्यम्

एषरतोदीयमानः स्यः सः युवयोः प्रियत्वेन प्रसिद्धः सोमो हे माध्वी मधुप्रियावश्विनौ वां युवयोः पुरतः निधिः निधिस्थानीयोहितः स्थापितोस्मेस्माभीरातोदत्तः संकल्पितः संनिहितः किमिव सख्ये सख्यार्थं पूर्वगत्वेव पुरतोगन्ता दूतइव सयथा प्रियं जनयन् स्वामिनः पुरतोवर्तते तद्वदित्यर्थः यस्मादेवं तस्मात् अहेळता अक्रुध्यता मनसा अनुग्रहयुक्तेन चेतसा अर्वागस्मदभिमुखं आयातम् आगच्छतम् । अश्नन्ता हव्यं हविः सोमादिकं अश्नन्तौ अभ्यवहरन्तौ कुत्र मानुषीषु विक्षु मनुष्यरूपासु प्रजासु वर्तमानम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३