मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६७, ऋक् ८

संहिता

एक॑स्मि॒न्योगे॑ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो॑ गात् ।
न वा॑यन्ति सु॒भ्वो॑ दे॒वयु॑क्ता॒ ये वां॑ धू॒र्षु त॒रण॑यो॒ वह॑न्ति ॥

पदपाठः

एक॑स्मिन् । योगे॑ । भु॒र॒णा॒ । स॒मा॒ने । परि॑ । वा॒म् । स॒प्त । स्र॒वतः॑ । रथः॑ । गा॒त् ।
न । वा॒य॒न्ति॒ । सु॒ऽभ्वः॑ । दे॒वऽयु॑क्ताः । ये । वा॒म् । धूः॒ऽसु । त॒रण॑यः । वह॑न्ति ॥

सायणभाष्यम्

हे भुरणा सर्वस्य भर्तारौ युवयोरेकस्मिन्समाने उभयसाधारणे योगेस्मद्विषये सति वां युवयोः रथः सप्तस्रवतः सर्पणस्वभावाः सप्तसङ्ख्याकावा गङ्गाद्याः परिगात् परिगच्छति शीघ्रमागच्छतीत्यर्थः तद्रथाश्वाः सुभ्वः सुभवनाः देवयुक्ताः देवाभ्यां युवाभ्यां युक्ताः अश्वाः शीघ्रगमने न वायन्ति न सुष्यन्ति नश्राम्यन्ते येश्वाः वां धूर्षु रथस्य तरणयः तारकाः शीघ्रगन्तारोवहन्ति युवां ते न वायन्तीति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३