मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६७, ऋक् १०

संहिता

नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ।
ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

नु । मे॒ । हव॑म् । आ । शृ॒णु॒त॒म् । यु॒वा॒ना॒ । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ।
ध॒त्तम् । रत्ना॑नि । जर॑तम् । च॒ । सू॒रीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे युवाना नित्ययौवनौ नु अद्य युवां मे हवमस्मदीयां स्तुतिं आशृणुतं श्रुत्वा च हे अश्विनौ इरावत् हविर्युक्तं वर्तिर्गृहं यासिष्टं आगच्छतम् आगत्यच रत्नानि रमणीयानि धनानि धत्तं दत्तं सूरीन् स्तोतॄन् जरतं वर्धयतं धातूनामनेकार्थत्वात् । शिष्टं यूयं पातस्वस्तिभिः सदानः स्पष्टम् ॥ १० ॥

आशुभ्रायातमिति नवर्चं त्रयोदशं सूक्तं वसिष्ठस्यार्षं आश्विनम् आदितः सप्तविराजः अष्टमीनवम्यौ त्रिष्टुभौ अनुक्तम्यते च-आशु- भ्रानव सप्ताद्याविराजइति सूक्तविनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३