मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६८, ऋक् १

संहिता

आ शु॑भ्रा यातमश्विना॒ स्वश्वा॒ गिरो॑ दस्रा जुजुषा॒णा यु॒वाको॑ः ।
ह॒व्यानि॑ च॒ प्रति॑भृता वी॒तं नः॑ ॥

पदपाठः

आ । शु॒भ्रा॒ । या॒त॒म् । अ॒श्वि॒ना॒ । सु॒ऽअश्वा॑ । गिरः॑ । द॒स्रा॒ । जु॒जु॒षा॒णा । यु॒वाकोः॑ ।
ह॒व्यानि॑ । च॒ । प्रति॑ऽभृता । वी॒तम् । नः॒ ॥

सायणभाष्यम्

हे शुभ्रा दीप्तौ स्वश्वा शोभनाश्वौ हे अश्विना अश्विनौ आयातमस्मद्यज्ञमागच्छतम् दस्रा शत्रूणां उपक्षपयितारौ युवां युवाकोर्युवां कामय- मानस्य मम गिरः स्तुतीर्जुजुषाणा सेवमानौ भवतमितिशेषः न केवलं स्तुतिं किंतु नोस्मदीयानि प्रतिभृता संभृतानि हव्यानि हवींषि च वीतं भक्षयतम् ॥ १ ॥

प्रवामन्धांसीत्येषा आश्विनस्त्रयाज्या सूत्रितंच-प्रवामन्धांसिगद्यान्यस्थुरुभापिबतमश्विनेति याज्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४