मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६८, ऋक् २

संहिता

प्र वा॒मन्धां॑सि॒ मद्या॑न्यस्थु॒ररं॑ गन्तं ह॒विषो॑ वी॒तये॑ मे ।
ति॒रो अ॒र्यो हव॑नानि श्रु॒तं नः॑ ॥

पदपाठः

प्र । वा॒म् । अन्धां॑सि । मद्या॑नि । अ॒स्थुः॒ । अर॑म् । ग॒न्त॒म् । ह॒विषः॑ । वी॒तये॑ । मे॒ ।
ति॒रः । अ॒र्यः । हव॑नानि । श्रु॒तम् । नः॒ ॥

सायणभाष्यम्

हे अश्विनौ वां युवाभ्यां मद्यानि मदजनकानि अन्धांसि सोमलक्षणान्यन्नानि प्रास्थुः प्रास्थिषत गृहीतान्यासन्नित्यर्थः अतोयुवां मे मम हविषोवीतये पानाय अरं अत्यर्थं शीघ्रं गन्तं आगच्छतम् अर्यः अरेः अन्स्मद्विरोधिनोहवनानि तिरस्तिरस्कृत्य नोस्मदाह्वानमित्यर्थः तत् श्रुतं शृणुतं श्रुतमित्यस्य वाक्यादित्वादनिघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४