मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६८, ऋक् ३

संहिता

प्र वां॒ रथो॒ मनो॑जवा इयर्ति ति॒रो रजां॑स्यश्विना श॒तोति॑ः ।
अ॒स्मभ्यं॑ सूर्यावसू इया॒नः ॥

पदपाठः

प्र । वा॒म् । रथः॑ । मनः॑ऽजवाः । इ॒य॒र्ति॒ । ति॒रः । रजां॑सि । अ॒श्वि॒ना॒ । श॒तऽऊ॑तिः ।
अ॒स्मभ्य॑म् । सू॒र्या॒व॒सू॒ इति॑ । इ॒या॒नः ॥

सायणभाष्यम्

हे सूर्यावसू सूर्यायाः सह रथे वसन्तौ हे अश्विना अशिनौ वां युवयोरथः अस्मभ्यमस्मदर्थं इयानोयाच्यमानः सन् इयर्ति आगच्छति अस्मद्यज्ञं अथवा वां प्रेरयति गमनाय । की दृशोरथः मनोजवाः मनोवेगः शतोतिरपरिमितास्मद्विषयरक्षणः । किंकुर्वन् रजांसि लोकान् तिरस्तिरस्कृत्य अतिक्रम्य इयर्तीति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४