मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६८, ऋक् ५

संहिता

चि॒त्रं ह॒ यद्वां॒ भोज॑नं॒ न्वस्ति॒ न्यत्र॑ये॒ महि॑ष्वन्तं युयोतम् ।
यो वा॑मो॒मानं॒ दध॑ते प्रि॒यः सन् ॥

पदपाठः

चि॒त्रम् । ह॒ । यत् । वा॒म् । भोज॑नम् । नु । अस्ति॑ । नि । अत्र॑ये । महि॑ष्वन्तम् । यु॒यो॒त॒म् ।
यः । वा॒म् । ओ॒मान॑म् । दध॑ते । प्रि॒यः । सन् ॥

सायणभाष्यम्

हे अश्विनौ वां युवयोश्चित्रं चायनीयं यद्भोजनं धनमस्ति ह अस्ति खलु न्वितिपूरणः तदस्मभ्यं दत्तमित्यर्थः । अथ तयोः स्तुतिः अत्रये एतन्नामकादृषेः पंचम्यर्थे चतुर्थी तस्मान्महिष्वन्तं ऋबीसं नियुयोतं पृथक्कुरुतम् योत्रिः प्रियः सन् स्तोतृत्वात् युवाभ्यां प्रियभूतः सन् वां यवाभ्यामेवकृतमोमानं रक्षणसुखं दधते धारयति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४