मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६८, ऋक् ६

संहिता

उ॒त त्यद्वां॑ जुर॒ते अ॑श्विना भू॒च्च्यवा॑नाय प्र॒तीत्यं॑ हवि॒र्दे ।
अधि॒ यद्वर्प॑ इ॒तऊ॑ति ध॒त्थः ॥

पदपाठः

उ॒त । त्यत् । वा॒म् । जु॒र॒ते । अ॒श्वि॒ना॒ । भू॒त् । च्यवा॑नाय । प्र॒तीत्य॑म् । ह॒विः॒ऽदे ।
अधि॑ । यत् । वर्पः॑ । इ॒तःऽऊ॑ति । ध॒त्थः ॥

सायणभाष्यम्

उतापिच हे अश्विना अश्विनौ वां युवयोः कर्म कुर्वते जुरते जूर्णाय हविर्दे हविर्दात्रे च्यवा नायैतन्नामकाय महर्षये त्यत्तत्प्रतीत्यं प्रतिगमनं तस्य रूपस्य प्रत्याप्त्यै भूत् अभूत् । किंतदिति यद्वर्पोरूपं इतऊति इतोगमनाख्यं मृत्योः सकाशादितः प्राप्तिरूपं अधि धत्थः अध्यधत्तम् । युवंच्यवानमश्विनाजरन्तंपुनर्युवानंचक्र्थुःशचीभिरित्यादिषु । च्यवानस्य युवयोः नवीकरणं प्रसिद्धम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५