मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६८, ऋक् ७

संहिता

उ॒त त्यं भु॒ज्युम॑श्विना॒ सखा॑यो॒ मध्ये॑ जहुर्दु॒रेवा॑सः समु॒द्रे ।
निरीं॑ पर्ष॒दरा॑वा॒ यो यु॒वाकु॑ः ॥

पदपाठः

उ॒त । त्यम् । भु॒ज्युम् । अ॒श्वि॒ना॒ । सखा॑यः । मध्ये॑ । ज॒हुः॒ । दुः॒ऽएवा॑सः । स॒मु॒द्रे ।
निः । ई॒म् । प॒र्ष॒त् । अरा॑वा । यः । यु॒वाकुः॑ ॥

सायणभाष्यम्

उतापिच त्यं तं भुज्युं एतन्नामानं समृद्रमध्ये समुद्रोदकस्य मध्ये सखायो भुज्युसखिभूताः दुरेवासोदुष्टगमनाः जहुः त्यक्तवन्तः हे अश्विना अश्विनौ युवां ईमेनं समुद्रमध्ये क्षिप्तं निःपर्षत् निरपारयतम् योभुज्युर्युवाकुः युवां कामयिता अरावा अरणवान् अभिगन्ताच तमेनं निरपारयतम् अत्राश्विनेषु सूक्तेषु कथाः सूच्यन्ते अत्रिभुज्य्वादीनामग्निजलादिभ्योरक्षणरूपास्ताः सर्वा महता प्रपञ्चेनास्माभिः नासत्याभ्यां बर्हिरिवेत्यत्र । प्रपञ्चिताः ताः तत्र द्रष्टव्याः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५