मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६९, ऋक् १

संहिता

आ वां॒ रथो॒ रोद॑सी बद्बधा॒नो हि॑र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वै॑ः ।
घृ॒तव॑र्तनिः प॒विभी॑ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति॑र्वा॒जिनी॑वान् ॥

पदपाठः

आ । वा॒म् । रथः॑ । रोद॑सी॒ इति॑ । ब॒द्ब॒धा॒नः । हि॒र॒ण्ययः॑ । वृष॑ऽभिः । या॒तु॒ । अश्वैः॑ ।
घृ॒तऽव॑र्तनिः । प॒विऽभिः॑ । रु॒चा॒नः । इ॒षाम् । वो॒ळ्हा । नृ॒ऽपतिः॑ । वा॒जिनी॑ऽवान् ॥

सायणभाष्यम्

हे अश्विनौ वां रथोवृषभिः युवभिरश्वैः युक्तः सन्नायातु यज्ञमस्मदीयं कीदृशोरथः रथोविशेष्यते रोदसी द्यावापृथिव्यौ बद्बधानोबाध- मानः हिरण्ययः हिरण्मयः घृतवर्तनिः घृतमुदकं वर्तन्यां यस्य तादृशः पविभीरथनेमिभिः मधुपात्रैर्वा रुचानोदीप्यमान इषां वोह्ळा यजमानैर्दत्तानां हविषां वाहकः दातव्यानां वान्नानां वोह्ळा नृपतिः नृणां यजमानानां स्वामी वाजिनीवानन्नवान् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६