मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६९, ऋक् २

संहिता

स प॑प्रथा॒नो अ॒भि पञ्च॒ भूमा॑ त्रिवन्धु॒रो मन॒सा या॑तु यु॒क्तः ।
विशो॒ येन॒ गच्छ॑थो देव॒यन्ती॒ः कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ॥

पदपाठः

सः । प॒प्र॒था॒नः । अ॒भि । पञ्च॑ । भूम॑ । त्रि॒ऽव॒न्धु॒रः । मन॑सा । आ । या॒तु॒ । यु॒क्तः ।
विशः॑ । येन॑ । गच्छ॑थः । दे॒व॒ऽयन्तीः॑ । कुत्र॑ । चि॒त् । याम॑म् । अ॒श्वि॒ना॒ । दधा॑ना ॥

सायणभाष्यम्

सरथः पञ्च भूम भूतानि सर्वप्राणिनः पप्रथानः प्रथमानः त्रिवन्धुरः वन्धुरमुच्चावचं सारथ्यवस्थानं काष्ठमयं तादृशैस्त्रिभिर्युक्तः मनसास्मत् स्तुत्या युक्तोभ्यायातु येन रथेन देवयन्तीः विशोयजमानान् प्रति गच्छथः हे अश्विना अश्विनौ कुत्राचित् यत्र क्वापि यामं गमनं दधाना धारयन्तौ येन विशोगच्छथः सयात्विति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६