मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६९, ऋक् ३

संहिता

स्वश्वा॑ य॒शसा या॑तम॒र्वाग्दस्रा॑ नि॒धिं मधु॑मन्तं पिबाथः ।
वि वां॒ रथो॑ व॒ध्वा॒३॒॑ याद॑मा॒नोऽन्ता॑न्दि॒वो बा॑धते वर्त॒निभ्या॑म् ॥

पदपाठः

सु॒ऽअश्वा॑ । य॒शसा॑ । आ । या॒त॒म् । अ॒र्वाक् । दस्रा॑ । नि॒ऽधिम् । मधु॑ऽमन्तम् । पि॒बा॒थः॒ ।
वि । वा॒म् । रथः॑ । व॒ध्वा॑ । याद॑मानः । अन्ता॑न् । दि॒वः । बा॒ध॒ते॒ । व॒र्त॒निऽभ्या॑म् ॥

सायणभाष्यम्

हे देवौ स्वश्वा शोभनाश्वेन यशसा च अर्वागस्मदभिमुखं यातमागच्छतम् । हे दस्रा शत्रूणामुपक्षपयितारौ मधुमन्तं मधुररसोपेतं निधिं निधिवन्निहतं सोमं पिबाथः पिबतं वां युवयोरथोवध्वा सूर्यया सह यादमानोगन्तव्यान्प्रति गच्छन् गमयन्नित्यर्थः एवं कुर्वन् वर्तनिभ्यां स्वचक्राभ्यां दिवोअन्तान् पर्यन्तप्रदेशान् विबाधते शीघ्रगमनेन पीडयति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६