मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६९, ऋक् ४

संहिता

यु॒वोः श्रियं॒ परि॒ योषा॑वृणीत॒ सूरो॑ दुहि॒ता परि॑तक्म्यायाम् ।
यद्दे॑व॒यन्त॒मव॑थ॒ः शची॑भि॒ः परि॑ घ्रं॒समो॒मना॑ वां॒ वयो॑ गात् ॥

पदपाठः

यु॒वोः । श्रिय॑म् । परि॑ । योषा॑ । अ॒वृ॒णी॒त॒ । सूरः॑ । दु॒हि॒ता । परि॑ऽतक्म्यायाम् ।
यत् । दे॒व॒ऽयन्त॑म् । अव॑थः । शची॑भिः । परि॑ । घ्रं॒सम् । ओ॒मना॑ । वा॒म् । वयः॑ । गा॒त् ॥

सायणभाष्यम्

युवोर्युवयोः श्रियं श्रयतइति श्रीः रथः तं सेवामेववा योषा सर्वदा मिश्रयन्ती योषित् सूरः सूर्यस्य रहिता पयवृणीत कदा परितक्म्यायां रात्रौ परितस्तकनवति संग्रामे यज्ञेषा गन्तव्ये किञ्च यद्यदा देवयन्तं देवकामं यजमानं यज्ञं वा शचीभिः युवयोर्गमनादिलक्षणैः कर्मभि- रवथोरक्षथः तदानीं घ्रंसं दीप्तं वयोन्नं सोमादिलक्षणं ओमना अवनेन रक्षणेन निमित्तेन वां परिगात् पर्यगात् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६