मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६९, ऋक् ५

संहिता

यो ह॒ स्य वां॑ रथिरा॒ वस्त॑ उ॒स्रा रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः ।
तेन॑ न॒ः शं योरु॒षसो॒ व्यु॑ष्टौ॒ न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन् ॥

पदपाठः

यः । ह॒ । स्यः । वा॒म् । र॒थि॒रा॒ । वस्ते॑ । उ॒स्राः । रथः॑ । यु॒जा॒नः । प॒रि॒ऽयाति॑ । व॒र्तिः ।
तेन॑ । नः॒ । शम् । योः । उ॒षसः॑ । विऽउ॑ष्टौ । नि । अ॒श्वि॒ना॒ । व॒ह॒त॒म् । य॒ज्ञे । अ॒स्मिन् ॥

सायणभाष्यम्

योरथो हेतिपूरणः स्यः सः प्रसिद्धोरथो हे रथिरा रथिनौ मत्वर्थीयोरः वां उस्राः तेजांसि वस्ते आच्छादयति यश्च रथोयुजानः अश्वैर्युक्तः सन् वर्तिर्मार्गं यजमानगृहं वा परियाति परिगच्छति तेन रथेन हे अश्विना अश्विनौ नोस्माकमस्मिन्यज्ञे उषसोव्युष्टौ प्रातःकाले शं- शमनाय पापानां योः मिश्रणाय च सुखानां निवहतं नितरां प्राप्नुतम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६