मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६९, ऋक् ७

संहिता

यु॒वं भु॒ज्युमव॑विद्धं समु॒द्र उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः ।
प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभि॑र्दं॒सना॑भिरश्विना पा॒रय॑न्ता ॥

पदपाठः

यु॒वम् । भु॒ज्युम् । अव॑ऽविद्धम् । स॒मु॒द्रे । उत् । ऊ॒ह॒थुः॒ । अर्ण॑सः । अस्रि॑धानैः ।
प॒त॒त्रिऽभिः॑ । अ॒श्र॒मैः । अ॒व्य॒थिऽभिः॑ । दं॒सना॑भिः । अ॒श्वि॒ना॒ । पा॒रय॑न्ता ॥

सायणभाष्यम्

हे अश्विना अश्विनौ युवं भुज्युं एतन्नामकं अवविद्धं विक्षिप्तं सखिभिः समुद्रे तन्मध्ये निमग्नं अर्णसः उदकादुदूहथुः किं कुर्वन्ताविति तदुच्यते अस्रिधानैः अक्षीयमाणैः अश्रमैः अव्यथिभिश्च पतत्रिभिः पतनवद्भिः गमनवद्भीरथेनियुक्तैरश्वैः दंसनाभिः शारीरैः कर्म- भिश्च पारयन्ता पारयन्तौ समुद्रे अर्णस उदूहथुरिति । नासत्याभुज्युमूहथुःपतङ्गैरितित्द्युक्तम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६