मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६९, ऋक् ८

संहिता

नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ।
ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

नु । मे॒ । हव॑म् । आ । शृ॒णु॒त॒म् । यु॒वा॒ना॒ । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ।
ध॒त्तम् । रत्ना॑नि । जर॑तम् । च॒ । सू॒रीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

नूमेहवमित्यष्टमी सिद्धा ॥ ८ ॥

आविश्ववारेति सप्तर्चं पञ्चदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं आश्विनं अनुक्रम्यतेच-आविश्ववारासप्तेति प्रातरनुवाकाश्विनशस्त्रे च विनियोगउक्तः आद्यस्तृचस्तृतीयेछन्दोमे प्रउगशस्त्रे विनियुक्तः । आविश्ववाराश्विनागतंनोयंसोमइन्द्रेति सूत्रितत्वात् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६