मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७०, ऋक् १

संहिता

आ वि॑श्ववाराश्विना गतं न॒ः प्र तत्स्थान॑मवाचि वां पृथि॒व्याम् ।
अश्वो॒ न वा॒जी शु॒नपृ॑ष्ठो अस्था॒दा यत्से॒दथु॑र्ध्रु॒वसे॒ न योनि॑म् ॥

पदपाठः

आ । वि॒श्व॒ऽवा॒रा॒ । अ॒श्वि॒ना॒ । ग॒त॒म् । नः॒ । प्र । तत् । स्थान॑म् । अ॒वा॒चि॒ । वा॒म् । पृ॒थि॒व्याम् ।
अश्वः॑ । न । वा॒जी । शु॒नऽपृ॑ष्ठः । अ॒स्था॒त् । आ । यत् । से॒दथुः॑ । ध्रु॒वसे॑ । न । योनि॑म् ॥

सायणभाष्यम्

हे त्रिश्ववारा सर्वैर्वरणीयावश्विनाश्विनौ नोस्माकं यद्यागमागतमागच्छतं वां युवयोस्तत्स्थानं पृथिव्यां वेद्यां प्रावाचि प्रोच्यते तदर्थं शुनपृष्ठः सुखकरपृष्ठभागः अत्यन्तविपुलत्वादारूढानां सुखकरपृष्ठभागइत्यर्थः वाजी वेगवानश्वेन अश्वोस्थात् तिष्ठतु युवयोः समीपे यत् यमित्यर्थः यमश्वं आसेदथुरासीदथः सोश्वः यद्वा यत्स्थानमासीदथः तत्स्थानं आश्रयतु । इतोगमनाय स्थितौ दृष्टान्तः ध्रुवसे ध्रुवाय निवासाय योनिं न योनिं स्थानमिव ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७