मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७०, ऋक् २

संहिता

सिष॑क्ति॒ सा वां॑ सुम॒तिश्चनि॒ष्ठाता॑पि घ॒र्मो मनु॑षो दुरो॒णे ।
यो वां॑ समु॒द्रान्त्स॒रित॒ः पिप॒र्त्येत॑ग्वा चि॒न्न सु॒युजा॑ युजा॒नः ॥

पदपाठः

सिस॑क्ति । सा । वा॒म् । सु॒ऽम॒तिः । चनि॑ष्ठा । अता॑पि । घ॒र्मः । मनु॑षः । दु॒रो॒णे ।
यः । वा॒म् । स॒मु॒द्रान् । स॒रितः॑ । पिप॑र्ति । एत॑ऽग्वा । चि॒त् । न । सु॒ऽयुजा॑ । यु॒जा॒नः ॥

सायणभाष्यम्

सा सुमतिः अस्माभिः क्रियमाणा शोभना स्तुतिश्चनिष्ठा कमनीयतमा अतिशयेनान्नवती वा वां युवां सिषक्ति सेवते किञ्च घर्मः प्रवर्ग्यश्च मनुषोमनुष्यस्य यजमानस्य दुरोणे यागगृहे अतापि तप्तोभूत् यद्घ्राँइत्यतपत्तद्घर्मस्यघर्मत्वमितिश्रुतिः । यज्ञस्य शिरःस्थानीयत्वाद- स्ययोघर्मोवां युवां प्राप्नुवन्निति शेषः समुद्रान् सरितश्च पिपर्ति पूरयति वृष्टिद्वारा एतग्वाचिन्न चिदितिपूरणः अश्वाविव यथा सुयुजा सुष्ठुयुक्तौ रथे भवतस्तथेत्यर्थः नेत्युपमार्थे तद्वद्युवां यज्ञे युजानोयोजयन्यज्ञः सएवं करोति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७