मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७०, ऋक् ३

संहिता

यानि॒ स्थाना॑न्यश्विना द॒धाथे॑ दि॒वो य॒ह्वीष्वोष॑धीषु वि॒क्षु ।
नि पर्व॑तस्य मू॒र्धनि॒ सद॒न्तेषं॒ जना॑य दा॒शुषे॒ वह॑न्ता ॥

पदपाठः

यानि॑ । स्थाना॑नि । अ॒श्वि॒ना॒ । द॒धाथे॒ इति॑ । दि॒वः । य॒ह्वीषु॑ । ओष॑धीषु । वि॒क्षु ।
नि । पर्व॑तस्य । मू॒र्धनि॑ । सद॑न्ता । इष॑म् । जना॑य । दा॒शुषे॑ । वह॑न्ता ॥

सायणभाष्यम्

हे अश्विनाऽश्विनौ युवां दिवोद्युलोकादागत्य यानि स्थानानि दधाथे कुरुथः कुत्रेति उच्यते यह्वीषु महतीषु ओषधीषु विक्षु यजमानेषु च । तौ युवां पर्वतस्य मेघस्यान्तरिक्षस्यवा मूर्धनि स्थाने निसदन्ता निषीदन्तौ इषमन्नं दाशुषे हविर्दात्रे जनाय यजमानाय वहन्ता प्रापयन्तौ भवतमितिशेषः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७