मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७०, ऋक् ४

संहिता

च॒नि॒ष्टं दे॑वा॒ ओष॑धीष्व॒प्सु यद्यो॒ग्या अ॒श्नवै॑थे॒ ऋषी॑णाम् ।
पु॒रूणि॒ रत्ना॒ दध॑तौ॒ न्य१॒॑स्मे अनु॒ पूर्वा॑णि चख्यथुर्यु॒गानि॑ ॥

पदपाठः

च॒नि॒ष्टम् । दे॒वौ॒ । ओष॑धीषु । अ॒प्ऽसु । यत् । यो॒ग्याः । अ॒श्नवै॑थे॒ इति॑ । ऋषी॑णाम् ।
पु॒रूणि॑ । रत्ना॑ । दध॑तौ । नि । अ॒स्मे इति॑ । अनु॑ । पूर्वा॑णि । च॒ख्य॒थुः॒ । यु॒गानि॑ ॥

सायणभाष्यम्

हे देवा देवौ युवां ओषधीषु ओषधिविकारान् चरुपुरोडाशादिकान् अप्सु सोमरसान् चनिष्टं अत्यन्तकमनीयतमंकामयेथामित्यर्थः । यद्यस्माद्योग्या युवयोरुचिता ओषधीरपश्च ऋषीणां संबन्धिनीः अश्नवैथे व्याप्नुथः तस्मादस्मदीयाअपि कामयेथामित्यर्थः । यद्वा ऋषीणामस्माकमिति पूजार्थं बहुवचनम् यद्यस्मादोषधीष्वप्सु च चनिष्टं योग्याः स्तुतीश्चाश्नवैथे तस्मादस्मे अस्मासु पुरूणि बहूनि रत्ना रमणीयानि धनानि निदधतौ पूर्वाणि युगानि मिथुनानि जायापतीरूपाणि अनुचख्यथुः ख्यातवन्तौ अनुकृष्टवन्तावनुग्रहार्थम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७