मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७०, ऋक् ५

संहिता

शु॒श्रु॒वांसा॑ चिदश्विना पु॒रूण्य॒भि ब्रह्मा॑णि चक्षाथे॒ ऋषी॑णाम् ।
प्रति॒ प्र या॑तं॒ वर॒मा जना॑या॒स्मे वा॑मस्तु सुम॒तिश्चनि॑ष्ठा ॥

पदपाठः

शु॒श्रु॒ऽवांसा॑ । चि॒त् । अ॒श्वि॒ना॒ । पु॒रूणि॑ । अ॒भि । ब्रह्मा॑णि । च॒क्षा॒थे॒ इति॑ । ऋषी॑णाम् ।
प्रति॑ । प्र । या॒त॒म् । वर॑म् । आ । जना॑य । अ॒स्मे इति॑ । वा॒म् । अ॒स्तु॒ । सु॒ऽम॒तिः । चनि॑ष्ठा ॥

सायणभाष्यम्

हे अश्विना अश्विनौ चिदितिपूरणः युवां शुश्नुवांसा श्रुतवन्तौ सन्तौ पुरूणि बहूनि ब्रह्माणि परिवृढानि कर्माणि स्तुतिलक्षणानि ऋषीणामस्माकं संबन्धीनि अभिचक्षाथे अभिपश्यथोयुवाम् अतोजनाय यजमानस्य मम वरं यज्ञं प्रति प्रायातं वाम् । युवयोश्चनिष्ठा उक्तलक्षणा सुमतिरनुग्रहमतिरस्मे अस्मास्वस्तु भवतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७