मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७०, ऋक् ६

संहिता

यो वां॑ य॒ज्ञो ना॑सत्या ह॒विष्मा॑न्कृ॒तब्र॑ह्मा सम॒र्यो॒३॒॑ भवा॑ति ।
उप॒ प्र या॑तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा॑ण्यृच्यन्ते यु॒वभ्या॑म् ॥

पदपाठः

यः । वा॒म् । य॒ज्ञः । ना॒स॒त्या॒ । ह॒विष्मा॑न् । कृ॒तऽब्र॑ह्मा । स॒ऽम॒र्यः॑ । भवा॑ति ।
उप॑ । प्र । या॒त॒म् । वर॑म् । आ । वसि॑ष्ठम् । इ॒मा । ब्रह्मा॑णि । ऋ॒च्य॒न्ते॒ । यु॒वऽभ्या॑म् ॥

सायणभाष्यम्

हे नासत्या अश्विनौ वां युवयोर्योयज्ञोयजमानः समर्यः ऋत्विग्रूपैर्मर्त्यैः सहितः सन् हविष्मान् हविषायुक्तः कृतब्रह्मा कृतस्तोत्ररूपकर्मा भवति भवति तं वरं वरणीयं वसिष्ठं आ उपप्रयातं प्रकर्षेणोपागच्छतम् । इमा इमानि ब्रह्माणि मन्त्रजातानि युवभ्यां युवाभ्यामर्थाय आगमनाय ऋच्यन्ते सूयन्ते क्रियन्ते इत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७