मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७०, ऋक् ७

संहिता

इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् ।
इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

इ॒यम् । म॒नी॒षा । इ॒यम् । अ॒श्वि॒ना॒ । गीः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।
इ॒मा । ब्रह्मा॑णि । यु॒व॒ऽयूनि॑ । अ॒ग्म॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ इयं मनीषा स्तुतिः युवयोः कृतेति शेषः तदेवादरार्थं पुनरुच्यते इयङ्मीः स्तुतिः कृता हे वृषण कामानां वर्षकौ इमा- मस्मत्कृतां सुवृक्तिं शोभनां स्तुतिं जुषेथां सेवेथां इमा इमानि ब्रह्माणि कर्माणि स्तुतिरूपाणि युवयूनि युवां कामयमानानि सन्ति अग्मन् गच्छन्तु युवाम् । यूयं पातेति सिद्धम् ॥ ७ ॥

पञ्चमेनुवाके एकविंशतिसूक्तानि तत्र अपस्वसुरिति षळृचं प्रथमं सूक्तं त्रैष्टुभमाश्विनम् अनुक्रम्यतेच-अपस्वसुःषळिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७