मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७१, ऋक् २

संहिता

उ॒पाया॑तं दा॒शुषे॒ मर्त्या॑य॒ रथे॑न वा॒मम॑श्विना॒ वह॑न्ता ।
यु॒यु॒तम॒स्मदनि॑रा॒ममी॑वां॒ दिवा॒ नक्तं॑ माध्वी॒ त्रासी॑थां नः ॥

पदपाठः

उ॒प॒ऽआया॑तम् । दा॒शुषे॑ । मर्त्या॑य । रथे॑न । वा॒मम् । अ॒श्वि॒ना॒ । वह॑न्ता ।
यु॒यु॒तम् । अ॒स्मत् । अनि॑राम् । अमी॑वाम् । दिवा॑ । नक्त॑म् । मा॒ध्वी॒ इति॑ । त्रासी॑थाम् । नः॒ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ युवां उपायातमुपागच्छतमस्मदाह्वानं प्रति । किमर्थं दाशुषे हविषां दात्रे मर्त्याय यजमानाय तदर्धं रथेन वामं वननीयं धनं वहन्ता वहन्तौ अस्मदस्मत्तोयुयुतं पृथक्कुरुतम् । किं अनिरां इरान्नं तद्रहितं दारिन्द्यमित्यर्थः अमीवां रोगञ्च हे माध्वी मधुमन्तौ युवां नोस्मान् दिवानक्तं सर्वदा त्रासीथां रक्षतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८