मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७१, ऋक् ३

संहिता

आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयन्तु ।
स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मन्तं वहेथाम् ॥

पदपाठः

आ । वा॒म् । रथ॑म् । अ॒व॒मस्या॑म् । विऽउ॑ष्टौ । सु॒म्न॒ऽयवः॑ । वृष॑णः । व॒र्त॒य॒न्तु॒ ।
स्यूम॑ऽगभस्तिम् । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । आ । अ॒श्वि॒ना॒ । वसु॑ऽमन्तम् । व॒हे॒था॒म् ॥

सायणभाष्यम्

अवमस्यां आसन्नायां व्युष्टौ व्युच्छने उषसि वां युवयोः रथं सुम्नायवः सुखेन योजयन्तोश्वाः वृषणोवर्षका युवां आवर्तयन्तु स्यूमग- भस्तिं सुखरश्मिं वसुमन्तं प्रदेयधनयुक्तं रथं हे अश्विनाश्विनौ ऋतयुग्भिः उदकयुक्तैश्वैः उदकप्रदैरश्वैः आवहेथाम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८