मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७१, ऋक् ४

संहिता

यो वां॒ रथो॑ नृपती॒ अस्ति॑ वो॒ळ्हा त्रि॑वन्धु॒रो वसु॑माँ उ॒स्रया॑मा ।
आ न॑ ए॒ना ना॑स॒त्योप॑ यातम॒भि यद्वां॑ वि॒श्वप्स्न्यो॒ जिगा॑ति ॥

पदपाठः

यः । वा॒म् । रथः॑ । नृ॒प॒ती॒ इति॑ नृऽपती । अस्ति॑ । वो॒ळ्हा । त्रि॒ऽव॒न्धु॒रः । वसु॑ऽमान् । उ॒स्रऽया॑मा ।
आ । नः॒ । ए॒ना । ना॒स॒त्या॒ । उप॑ । या॒त॒म् । अ॒भि । यत् । वा॒म् । वि॒श्वऽप्स्न्यः॑ । जिगा॑ति ॥

सायणभाष्यम्

हे नृपती नृणां यजमानानां पालकौ अश्विनौ वां युवयोर्योरथः वोह्ळा युवयोर्वाहकोस्ति सर्वदा सन्निहितोवर्तते कीदृशोसौ त्रिवंन्धुरः सारथ्यधिष्ठानस्थानत्रयोपेतः वसुमान् धनवान् अस्रयामा उस्रं दिवसं प्रतिगन्ता एना एनेन रथेन हे नासत्या अशिनौ नोस्मानुपायात- म यद्रथोयश्चरथोवां विश्वप्रुयोव्याप्तरूपोभिजिगाति अभिगच्छति अथवा यद्यस्माद्विश्वप्रुयोवसिष्ठोवां जिगाति स्तौति अतउपा- यातम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८