मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७१, ऋक् ५

संहिता

यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व॑म् ।
निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा॑हु॒षं शि॑थि॒रे धा॑तम॒न्तः ॥

पदपाठः

यु॒वम् । च्यवा॑नम् । ज॒रसः॑ । अ॒मु॒मु॒क्त॒म् । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् ।
निः । अंह॑सः । तम॑सः । स्पर्त॑म् । अत्रि॑म् । नि । जा॒हु॒षम् । शि॒थि॒रे । धा॒त॒म् । अ॒न्तरिति॑ ॥

सायणभाष्यम्

हे अशिनौ युवं युवां जरसोजीर्णाद्रूपत् अमुमुक्तम् अमुञ्चतम युवंच्यवानमश्विनाजरन्तंपुनर्युवानमित्यन्यत्र । तथा पेदवे एतन्नामकाय राज्ञे आशुं शीघ्रगामिनमश्वं निरूहथुः न्यवहतं युद्धे । युवंश्वेतंपेदवेइतिनिगमः । तथा अत्रिं महर्षिं अंहसः ऋबीसादग्नेः सकाशात्तमसश्च गुहान्तस्थिताच्च सकाशान्निष्पर्तं न्यपारयतम् । युवमृबीसमुततप्तमत्रयओमन्वन्तं चक्रथुरितिनिगमः । तथा जाहुषं शिथिरे शिथिले भ्रष्टे स्वराष्ट्रेन्तर्मध्ये पुनर्निधातं न्यधातम् परिविष्टं जाहुषंविश्वतःसीमितित्द्युक्तम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८