मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७२, ऋक् १

संहिता

आ गोम॑ता नासत्या॒ रथे॒नाश्वा॑वता पुरुश्च॒न्द्रेण॑ यातम् ।
अ॒भि वां॒ विश्वा॑ नि॒युतः॑ सचन्ते स्पा॒र्हया॑ श्रि॒या त॒न्वा॑ शुभा॒ना ॥

पदपाठः

आ । गोऽम॑ता । ना॒स॒त्या॒ । रथे॑न । अश्व॑ऽवता । पु॒रु॒ऽच॒न्द्रेण॑ । या॒त॒म् ।
अ॒भि । वा॒म् । विश्वाः॑ । नि॒ऽयुतः॑ । स॒च॒न्ते॒ । स्पा॒र्हया॑ । श्रि॒या । त॒न्वा॑ । शु॒भा॒ना ॥

सायणभाष्यम्

हे नासत्या अश्विनौ गोमता गोयुक्तेन अश्वावता अश्वयुक्तेन अश्वैर्वृषभैश्चोढेनेत्यर्थः यद्वा गोमता गोप्रदेन पुरुश्च्न्द्रेण बहुधनेन धनप्रदेने- त्यर्थः तादृशेन रथेन आयातं आगच्छतं वां विशा बह्वयोनियुतः स्तुतयः अभिसचन्ते सेवन्तेऽस्मत्प्रेरिताः । हे स्पार्हया स्पृहणीयया श्रिया शोभया तन्वा शरीरेणच शुभाना दीप्यमानौ युवाम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९