मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७२, ऋक् ३

संहिता

उदु॒ स्तोमा॑सो अ॒श्विनो॑रबुध्रञ्जा॒मि ब्रह्मा॑ण्यु॒षस॑श्च दे॒वीः ।
आ॒विवा॑स॒न्रोद॑सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ॥

पदपाठः

उत् । ऊं॒ इति॑ । स्तोमा॑सः । अ॒श्विनोः॑ । अ॒बु॒ध्र॒न् । जा॒मि । ब्रह्मा॑णि । उ॒षसः॑ । च॒ । दे॒वीः ।
आ॒ऽविवा॑सन् । रोद॑सी॒ इति॑ । धिष्ण्ये॒ इति॑ । इ॒मे इति॑ । अच्छ॑ । विप्रः॑ । नास॑त्या । वि॒व॒क्ति॒ ॥

सायणभाष्यम्

स्तोमासः स्तोमाः स्तवाः अश्विना अश्विनौ उदु अबुध्रन् उत्कृष्टं बोधयन्ति उइति पूरणः जामि बन्धुनामैतत् बन्धुस्थानीयानि ब्रह्माणि परिवृढानि कर्माणि देवीर्द्योतमानाउषसश्चकारादश्विनौच अबुध्रन् विप्रोमेधावी वसिष्ठः इमे रोदसी द्यावापृथिव्यौ धिष्णये धिष- णार्हे स्तुत्ये आविवासन् परिचरन् नासत्या अशिनौ अच्छ अभिमुखं विवक्ति स्तौति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९