मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७२, ऋक् ५

संहिता

आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।
आ वि॒श्वत॒ः पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

आ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् ।
आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे नासत्या अश्विनौ पश्चातात् पश्चाद्देशात् आयातम् तथा पुरस्तात्पूर्वस्माद्देशात् तथा अधरादधस्तनाद्देशात् दक्षिणतः उदक्तादुदग्देशात् सर्वत्रायातमिति संबन्धः किंबहुना विश्वतः सर्वस्माद्देशात्पाञ्चजन्येन पञ्चजनहितेन राया धनेन सहायातम् निषादपञ्चमाश्चत्वारो- वर्णाः पञ्चजनाः शिष्टं स्पष्टम् ॥ ५ ॥

अतारिष्मेति पञ्चर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाश्विनम् अतारिष्मेत्यनुक्रमणिका प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९