मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७३, ऋक् ४

संहिता

उप॒ त्या वह्नी॑ गमतो॒ विशं॑ नो रक्षो॒हणा॒ सम्भृ॑ता वी॒ळुपा॑णी ।
समन्धां॑स्यग्मत मत्स॒राणि॒ मा नो॑ मर्धिष्ट॒मा ग॑तं शि॒वेन॑ ॥

पदपाठः

उप॑ । त्या । वह्नी॒ इति॑ । ग॒म॒तः॒ । विश॑म् । नः॒ । र॒क्षः॒ऽहना॑ । सम्ऽभृ॑ता । वी॒ळुपा॑णी॒ इति॑ वी॒ळुऽपा॑णी ।
सम् । अन्धां॑सि । अ॒ग्म॒त॒ । म॒त्स॒राणि॑ । मा । नः॒ । म॒र्धि॒ष्ट॒म् । आ । ग॒त॒म् । शि॒वेन॑ ॥

सायणभाष्यम्

त्या त्यौ तौ वह्नी हविषांवोढारौ नोस्माकं विशं प्रजां ऋत्विजं उपगमतः उपगच्छतां कीदृशौ तौ रक्षोहणा रक्षसां हन्तारौ संभृता सम्यग्भृतौ पुष्टांगौ वीळुपाणी दृढपाणी यद्वायमर्धर्चोश्वपरतयाव्याख्येयः तथा सति तौ रथस्यवोढारौ दृढपादौ अश्विनोरश्वौ उपग- च्छतामिति तस्यार्थः । अन्धांस्यन्नानि मत्सराणि मदकरणि सोमाः समग्मत समगच्छन्त युवां नोस्मान् मामर्धिष्टं माहिंस्तं किंतु शिवेन मङ्गलेन धनेन सार्धमागतमागच्छतम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०