मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७४, ऋक् २

संहिता

यु॒वं चि॒त्रं द॑दथु॒र्भोज॑नं नरा॒ चोदे॑थां सू॒नृता॑वते ।
अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ॥

पदपाठः

यु॒वम् । चि॒त्रम् । द॒द॒थुः॒ । भोज॑नम् । न॒रा॒ । चोदे॑थाम् । सू॒नृता॑ऽवते ।
अ॒र्वाक् । रथ॑म् । सऽम॑नसा । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥

सायणभाष्यम्

हे नरा अश्विनौ युवं युवां चित्रं चायनीयं भोजनं धनं दधथुः धारयेथे तद्धनं सूनृतावते स्तुतिवते स्तोत्रे चोदेथां प्रेरयतं तदर्थं समनसा समानमनस्कौ सन्तौ रथं युवयोः संबन्धिनं अर्वागस्मदभिमुखं नियच्छतं नियमतम् । तथा कृत्वा सोम्यं सोमसंबन्धिनं मधु मधुररसं पिबतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१