मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७४, ऋक् ३

संहिता

आ या॑त॒मुप॑ भूषतं॒ मध्व॑ः पिबतमश्विना ।
दु॒ग्धं पयो॑ वृषणा जेन्यावसू॒ मा नो॑ मर्धिष्ट॒मा ग॑तम् ॥

पदपाठः

आ । या॒त॒म् । उप॑ । भू॒ष॒त॒म् । मध्वः॑ । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ।
दु॒ग्धम् । पयः॑ । वृ॒ष॒णा॒ । जे॒न्या॒व॒सू॒ इति॑ । मा । नः॒ । म॒र्धि॒ष्ट॒म् । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विना युवां आयातमागच्छतं आगत्य चोपसमीपे भूषतं भवतं मध्वः मधुरं सोमरसं पिबतं पीत्वाच हे वृषणा वर्षकौ हे जेन्यावस् जेतव्यधनौ जितधनावित्यर्थः युवां पयोवृष्ट्युदकं अन्तरिक्षात् दुग्धं नोस्मान् ममर्धिष्टं माहिंस्तं ईदृशप्रार्थनाकरणमेवहिंसा आगत- मागच्छतं शीघ्रम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१