मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७४, ऋक् ५

संहिता

अधा॑ ह॒ यन्तो॑ अ॒श्विना॒ पृक्ष॑ः सचन्त सू॒रयः॑ ।
ता यं॑सतो म॒घव॑द्भ्यो ध्रु॒वं यश॑श्छ॒र्दिर॒स्मभ्यं॒ नास॑त्या ॥

पदपाठः

अध॑ । ह॒ । यन्तः॑ । अ॒श्विना॑ । पृक्षः॑ । स॒च॒न्त॒ । सू॒रयः॑ ।
ता । यं॒स॒तः॒ । म॒घव॑त्ऽभ्यः । ध्रु॒वम् । यशः॑ । छ॒र्दिः । अ॒स्मभ्य॑म् । नास॑त्या ॥

सायणभाष्यम्

अधाह अपिच अश्विना अश्विनौ यन्तः स्तुतिभिर्गच्छन्तोयजमानाः सूरयोमेधाविनः स्तोतारं पृक्षोन्नं प्रभूतं सचन्त सेवन्ते संयन्तिवा ता तौ युवां मघवद्भोन्नवद्भोस्मभ्यं ध्रुवं अविचलितं यशोन्नं यशएववा छर्दिर्गृहं यंसतः प्रयच्छतम् हे नासत्याश्विनौ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१