मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७५, ऋक् १

संहिता

व्यु१॒॑षा आ॑वो दिवि॒जा ऋ॒तेना॑विष्कृण्वा॒ना म॑हि॒मान॒मागा॑त् ।
अप॒ द्रुह॒स्तम॑ आव॒रजु॑ष्ट॒मङ्गि॑रस्तमा प॒थ्या॑ अजीगः ॥

पदपाठः

वि । उ॒षाः । आ॒वः॒ । दि॒वि॒ऽजाः । ऋ॒तेन॑ । आ॒विः॒ऽकृ॒ण्वा॒ना । म॒हि॒मान॑म् । आ । अ॒गा॒त् ।
अप॑ । द्रुहः॑ । तमः॑ । आ॒वः॒ । अजु॑ष्टम् । अङ्गि॑रःऽतमा । प॒थ्याः॑ । अ॒जी॒ग॒रिति॑ ॥

सायणभाष्यम्

इयमुषाः दिविजाः दिव्यन्तरिक्षे प्रादुर्भूतासती व्यावः व्यौच्छत् विभानं कृतवतीत्यर्थः वसिर्निवासवाची अत्र विपूर्वोव्युच्छनेभवेत् छन्दस्यपिदृश्यतइत्याट् दृशिग्रहणस्य विध्यन्तरोपसंग्रहणार्थत्वादनजादेरप्याडागमः हल् ङ्याब्भ्यइतिलोपः सैवोषाः ऋतेन तेजसा महिमानं स्वमहत्त्वमाविष्कृण्वाना आगात् आगतवती आगत्यच द्रुहोस्मदृरोग्धॄन् अजुष्टं सर्वेषामप्रियं तमश्चअपावः अपवृणोति किञ्च अङ्गिरस्तमा अङ्गेर्गत्यर्थादङ्गिराः गन्तृतमाः पथ्याः पदवीरजीगः उद्गिरति प्राणिनांव्यवहाराय प्रकाशयतीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२