मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७५, ऋक् ७

संहिता

स॒त्या स॒त्येभि॑र्मह॒ती म॒हद्भि॑र्दे॒वी दे॒वेभि॑र्यज॒ता यज॑त्रैः ।
रु॒जद्दृ॒ळ्हानि॒ दद॑दु॒स्रिया॑णां॒ प्रति॒ गाव॑ उ॒षसं॑ वावशन्त ॥

पदपाठः

स॒त्या । स॒त्येभिः॑ । म॒ह॒ती । म॒हत्ऽभिः॑ । दे॒वी । दे॒वेभिः॑ । य॒ज॒ता । यज॑त्रैः ।
रु॒जत् । दृ॒ळ्हानि॑ । दद॑त् । उ॒स्रिया॑णाम् । प्रति॑ । गावः॑ । उ॒षस॑म् । वा॒व॒श॒न्त॒ ॥

सायणभाष्यम्

सत्या अन्यैरबाध्या महती पूजनीया प्रवृद्धा वा गुणैः । देवी द्योतमाना यजता यजनीयोषाः सत्यभिः सत्यैर्महद्भिर्देवेभिर्देवैर्यजत्रैरुक्त- लक्षणैः किरणैर्निपातभाग्भिरन्यैः देवैर्वा सहिता सती दृह्ळान्यत्यन्तं स्थिराणि तमांसि रूजत् भिनत्ति उस्रियाणां गोनामैतत् उस्राविण- आसां भोगाइति तद्भ्युत्पत्तिः तासां सञ्चाराय ददत् ददाति सामर्थ्यात् प्रकाशमित्यर्थः अथवा उस्रियागाः ददत् ददाति स्तोतृभ्यः । किञ्च गावः उपलक्षणमेतत् सर्वेपि तमोवरुद्धाः प्राणिनउषसंप्रति वावशन्त उशन्ति कामयन्ते विशेषेण गवां प्रभाते सञ्चारार्थमुष- सोपेक्षितत्वात्तासां प्राधान्येनोक्तिः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२