मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७५, ऋक् ८

संहिता

नू नो॒ गोम॑द्वी॒रव॑द्धेहि॒ रत्न॒मुषो॒ अश्वा॑वत्पुरु॒भोजो॑ अ॒स्मे ।
मा नो॑ ब॒र्हिः पु॑रु॒षता॑ नि॒दे क॑र्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

नु । नः॒ । गोऽम॑त् । वी॒रऽव॑त् । धे॒हि॒ । रत्न॑म् । उषः॑ । अश्व॑ऽवत् । पु॒रु॒ऽभोजः॑ । अ॒स्मे इति॑ ।
मा । नः॒ । ब॒र्हिः । पु॒रु॒षता॑ । नि॒दे । कः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे उषः नोस्मभ्यं नु क्षिप्रं गोमद्भहुभिर्गोभिर्युक्तं वीरवद्वीरैः पुत्रैरुपेतं अश्ववत् बहुभिरश्वैरुपेतं रत्नं रमणीयं धनं पुरुभोजोबह्वन्नं चास्मे अस्मासु धेहि देहि पादभेदादस्मेइति पुनरभिधानम् । नोस्माकं बर्हिर्यज्ञं पुरुषता पुरुषतायां पुरुषसमूहेष्वस्मत्सदृशेष्वित्यर्थः निदे निंदायै माकः मकार्षीः । यथा ते निन्दन्ति तथा मा कर्वित्यर्थः ॥ ८ ॥

उदुज्योतिरिति सप्तर्चं षष्ठं सूक्तं त्रैष्टुभमुषस्यं तथाचानुक्रान्तम् – उदुसप्तेति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२