उदु॒ ज्योति॑र॒मृतं॑ वि॒श्वज॑न्यं वि॒श्वान॑रः सवि॒ता दे॒वो अ॑श्रेत् ।
क्रत्वा॑ दे॒वाना॑मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ॥
उत् । ऊं॒ इति॑ । ज्योतिः॑ । अ॒मृत॑म् । वि॒श्वऽज॑न्यम् । वि॒श्वान॑रः । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् ।
क्रत्वा॑ । दे॒वाना॑म् । अ॒ज॒नि॒ष्ट॒ । चक्षुः॑ । आ॒विः । अ॒कः॒ । भुव॑नम् । विश्व॑म् । उ॒षाः ॥
अमृतं अमृतत्व्साधकं अविनाशिवा विश्वजन्यं विश्वेषां जनानां हितकरं ज्योतिः विश्वानरः सर्वेषा नेता सवितोदेवः उदश्रेत् ऊर्ध्वं श्रयति उइतिपूरणः देवानां व्यवहर्तॄणां स्तोतॄणां वा यजमानां ऋत्वा कर्मणा निमित्तेन यागानुष्ठानार्थमित्यर्थः । तदर्थं यद्वा देवानां चक्षुश्चक्षुःस्थानीयमौषसं तेजः क्रत्वा कर्मणा निमित्तेन अजनिष्ट प्रादुर्भूत् उत्पन्नाचोषा विश्वं भुवनं भूतजातमाविरकः प्रादुरकः अकरोत् समस्तं जगदाविष्कृतवती ॥ १ ॥