मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७६, ऋक् २

संहिता

प्र मे॒ पन्था॑ देव॒याना॑ अदृश्र॒न्नम॑र्धन्तो॒ वसु॑भि॒रिष्कृ॑तासः ।
अभू॑दु के॒तुरु॒षसः॑ पु॒रस्ता॑त्प्रती॒च्यागा॒दधि॑ ह॒र्म्येभ्य॑ः ॥

पदपाठः

प्र । मे॒ । पन्थाः॑ । दे॒व॒ऽयानाः॑ । अ॒दृ॒श्र॒न् । अम॑र्धन्तः । वसु॑ऽभिः । इष्कृ॑तासः ।
अभू॑त् । ऊं॒ इति॑ । के॒तुः । उ॒षसः॑ । पु॒रस्ता॑त् । प्र॒ती॒ची । आ । अ॒गा॒त् । अधि॑ । ह॒र्म्येभ्यः॑ ॥

सायणभाष्यम्

मे मया देवयानाः देवप्रापकाः पन्थाः पन्थानः प्रादृश्रन् प्रदृश्यन्ते । कीदृशाः पन्थानः अमर्धन्तःअहिंसन्तः वसुभिस्तेजोभिरिष्कृतासः संस्कृताः पुरस्तात् पूर्वस्यांदिशि उषसः केतुः प्रज्ञापकं तेजः अभूत् अचेति ज्ञायते । सोषाश्च प्रतीची प्रत्यगञ्चना अस्मदभिमुखी हर्म्ये- भ्योधि उच्छ्रितेभ्यः प्रदेशेभ्यः हर्म्यशब्दउन्नतप्रदेशोपलक्षकः आगात् आगच्छति । उःपूरणः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३